संपूर्ण मंत्रपुष्पांजली | Sampurna Mantra Pushpanjali in Devanagari

संपूर्ण मंत्रपुष्पांजली Mantra Pushpanjali cover

मंत्रपुष्पांजली

ॐ यज्ञेन यज्ञमयजं तदेवास्तानि धर्माणि प्रथमान्यासं ।
ते हं नाकं महिमान सचंत यत्र पूर्वे साध्याः संतिदेवाः ।

ॐ राजाधिराजाय प्रसह्य साहिने मो वयं वैश्रवणाय कुर्महे ।
स मे कामान कामकामाय मह्यं कामेश्वरो वैश्रवणो ददातु ।।
कुबेराय वैश्रवणाय महारजाय नमः ।

ॐ स्वस्ति, साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं
पारमेष्ट्यं राज्यं महाराज्यमाधिपत्यमयं ।

समन्तपर्यायीस्यात् सार्वभौमः सार्वायुषः आन्तादापरार्धात्पृ
थीव्यै समुद्रपर्यंताया एकराळ इति ॥

तदप्येषः श्लोकोभिगीतो।
मरुतः परिवेष्टारो मरुतस्यावसन् गृहे।
आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति ॥

एकदंताय विद्महे । वक्रतुंडाय धिमहि ।। तन्नो दंती प्रचोदयात् ।।

संपूर्ण मंत्रपुष्पांजली

हरिः ॐ एकदंताय विद्महे वक्रतुण्डाय धीमहि ।
तन्नो दंतीप्रचोदयात् ।

हरि: ॐ नारायण विद्महे वासुदेवाय धीमहि ।
तन्नो विष्णुः प्रचोदयात् ।

हरिः ॐ महालक्ष्यै च विद्महे विष्णु पत्यै च धीमहि ।
तन्नो लक्ष्मी प्रचोदयात् ।

हरिः ॐ नंद नन्दनाय विद्महे यशोदा नंदनाय धीमहि ।
तन्नो कृष्णः प्रचोदयात्।

हरिः ॐ भास्कराय विद्महे दिवाकराय धीमहि ।
तन्नो सूर्यः प्रचोदयात्।

हरि ॐ अंजनी सुताय विद्महे वायुपुत्राय धीमहि ।
तन्नो हनुमत प्रचोदयात्।

हरि ॐ चतुर्मुखाय विद्महे हंसारुढ़ाय धीमहि ।
तन्नो ब्रह्मा प्रचोदयात्।

हरिः ॐ परमहंसाय विद्महे महाहंसाय धीमहि ।
तन्नो हंसः प्रचोदयात्।

हरिः ॐ श्री तुलस्यै विद्महे विष्णुप्रियायै च धीमहि ।
तन्नो वृन्दा प्रचोदयात् ।

हरिः ॐ वृषभानुजायै च विद्महे कृष्णप्रियायै च धीमहि ।
तन्नो राधा प्रचोदयात्।

हरिः ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि ।
तन्नो रुद्रः प्रचोदयात्।

ॐ सेवन्तिका बकुल चम्पक पाटलाब्जे,
पुन्नाग जाति करवीर रसाल पुष्पैः बिल्व प्रवाल ।
तुलसीदल मंजरीभिस्त्वां पूजयामि जगदीश्वर में प्रसीद ।।

मंदार माला कुलितालकायै कपालमालांकित शेखराय
दिगम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय
ॐ नाना सुगन्धि पुष्पाणि यथा कालो भवानी च,
पुष्पान्जलिर्मया दत्त ग्रहाण परमेश्वर ।

॥ मंत्रपुष्पांजली समर्पयामि ॥

Be the first to comment

Leave a Reply

Your email address will not be published.


*